अतिथिः

सुधाव्याख्या

अतति । ‘ऋतन्यञ्जि-’ (उ० ४.२) इति इथिन् । ‘अध्वनीनोऽतिथिर्ज्ञेयः’ इति स्मृतिः । ‘अतिथिः कुशपुत्रे स्यात्पुमानागन्तुकेऽपि च’इति विश्वमेदिन्यौ । ‘प्राघुणस्त्वतिथिर्द्वयोः’ इति त्रिकाण्डशेषः ॥


प्रक्रिया

धातुः -


अतँ सातत्यगमने
अत् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अत् + इथिन् - ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः (४.२) । उणादिसूत्रम् ।
अत् + इथि - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अतिथि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अतिथि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अतिथि + रु - ससजुषो रुः 8.2.66
अतिथि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अतिथिः - खरवसानयोर्विसर्जनीयः 8.3.15