कुतपः

सुधाव्याख्या

अंश इति । पञ्चदशमुहूर्तात्मकस्य दिनस्याष्टमो भागः । कुत्सितं तपति । ‘तप संतापे’ (भ्वा० प० अ०) । ‘संज्ञायाम्-’ (३.२.४६) इति खच् । ‘अनव्ययस्य’ (६.३.६६) इत्यनुवृतेर्न मुम् (६.३.६७) । यद्वा कुं भुवं तपति । आगमशास्त्रस्यानित्यत्वान्न मुम् । ‘दिवसस्याष्टमे भागे मन्दीभवति भास्करः । स कालः कुतपो ज्ञेयः पितॄणां दतमक्षयम्’ इति शातातपः । ‘कुतपोऽस्त्रियां दौहित्रे वाद्ये छागजकुम्बले । कुशे दिनस्याष्टमांशे ना सूर्ये' ‘कुतपी पुनः । विट्सारिकायाम्’ (इति मेदिनी)॥