और्ध्वदेहिकः

सुधाव्याख्या

म्रिति । मृतायेदम् । ‘अर्थेन नित्यसमासः’ (२.१.३६) । तच्च तदहश्च । ‘तस्याहः’ इति वा । ‘राजाह-’ (५.४.९१) इति टच् । तदहे प्रेतदिने । देहादूर्ध्वम् । ऊर्ध्वदेहः । राजदन्तादिः (२.२.३१) । ऊर्ध्वदेहे भवम् । अध्यात्मादित्वात् (वा० ४.३.६०) ठञ् । अनुशतिकादित्वात् । (७.३.२०) उभयपदवृद्धिः । केचिदुत्तरपदवृद्धिं नेच्छन्ति ॥ प्रेतमुद्दिश्य मरणदिनमारभ्य सपिण्डीकरणपर्यन्तं प्रत्यहं दीयमानस्य जलपिण्डादेरेकम् । ‘तदहर्दानम्’ इति पाठे तु समासान्तविधेरनित्यत्वान्न टच् ॥


प्रक्रिया

धातुः -


ऊर्ध्वदेह + ङि + ठञ् - अध्यात्मादेष्ठञिष्यते (४.३.६०) । वार्तिकम् ।
ऊर्ध्वदेह + ठञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
ऊर्ध्वदेह + ठ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ऊर्ध्वदेह + इक - ठस्येकः 7.3.50
ऊर्ध्वदेह् + इक - यस्येति च 6.4.148
ऊर्ध्वदेहिक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ऊर्ध्वदेहिक + अम् - अतोऽम् 7.1.24
ऊर्ध्वदेहिकम् - अमि पूर्वः 6.1.107