शमनम्

सुधाव्याख्या

‘शमु उपशमे' (दि० प० से०) । भावे ल्युट् (३.३.११५) । ‘शमनं शान्तिवधयोः शमनः श्राद्धदैवते' इति विश्वमेदिन्यौ । ‘शमनस्तु यमे प्रोक्तः । शमनं शान्तिहिंसयोः’ इति हैमः ॥ ‘शसनम्’ इति स्वामी । ‘शसु हिंसायाम्' (भ्वा० प० से०) । ल्युट् (३.३.११५) ॥ ‘ससनम्’ इत्यन्ये । ‘षसस्वप्ने’ (अ० प० से०) ॥