धवित्रम्

सुधाव्याख्या

धेति । धूयतेऽनेन । ‘धूञ् (क्र्या० उ० से०) । 'धू विधूनने' (तु० प० से०) वा । ‘अर्तिलूधूसू-’ (३.२.१८४) इतीत्रः । धुवतेः कुटादित्वेन (१.२.१) ङित्वाद्गुणाभावादुवङिधुवित्रम्’ इत्येके ॥