परिचाय्यः

सुधाव्याख्या

य इति । दक्षिणाग्नित्वेन संस्क्रियते । आनीयते आनाय्योऽनित्ये’ (३.१.१२७) इति साधुः । यस्तु भ्राष्ट्रवैश्यकुलयोनिः स ‘आनेयः ।


प्रक्रिया

धातुः -


परिचाय्यः - अग्नौ परिचाय्योपचाय्यसमूह्याः 3.1.131
परिचाय्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
परिचाय्य + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परिचाय्य + रु - ससजुषो रुः 8.2.66
परिचाय्य + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
परिचाय्यः - खरवसानयोर्विसर्जनीयः 8.3.15
3.   उपचाय्यः
सुधाव्याख्या – उपचीयते ॥ ‘अग्नौ परिचाय्योपचाय्यसमूह्याः (३.१.१३१) इति साधवः ॥ प्रयोगोऽस्ति येषां ते । अग्नौ प्रयोक्तव्या । अग्निनामानीत्यर्थः॥