दक्षिणाग्निः

सुधाव्याख्या

देति । दक्षिणोऽग्निः । ‘दिक्संख्ये संज्ञायाम्' (२.१.५०) इति समासः । मुकुटस्तु-दक्षिणाया दिशोऽग्निः । ‘सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः’ (वा० ५.३.२८) । दक्षिणाग्निः इत्याह । तन्न । संज्ञात्वेन दिक्संख्ये-' इत्येतत्सूत्रोदाहरणत्वात् । तत्र च ‘समानाधिकरणेन' इत्यधिकारात् ॥