अरणिः

सुधाव्याख्या

नीति । निर्मथ्यते । ‘मन्थ विलोडने’ (भ्वा० प० स०) । ण्यत् (३.१.१२४) । निर्मन्थ्यं च तद्दारु च ॥ ऋच्छति । ‘ऋ गतिप्रापणयोः’ (भ्वा० प० अ०) । ‘अर्तिसृधृधमि (उ० २.१०२) इत्यनिः । ‘अरणिर्वह्निमन्ये ना द्वयोर्निर्मन्थ्य दारुणि’ (इति मेदिनी) ॥