अग्नीध्राद्यः

सुधाव्याख्या

आग्नीति । अग्नीनिन्धे । 'ञि इन्धी दीप्तौ’ (रु० आ० से०) ॥ क्विप् (३.२.७६) । नलोपः (६.४.२४) । अग्नी दृत्विक । अग्नीधः स्थानम् । 'अग्नीधः शरणे रण् भं च' (वा० ४.३.१२०) । आग्नीध्रं स्थानम् । तात्स्यात्सोऽपि । ‘स्फायि (उ० २.१३) इति रक् । नलोपः (६.४.२४) । अग्नीध्रः इति मुकुटः । तन्न । स्फाय्यादिष्विन्धेरपाठात् । अस्मदुक्तप्रक्रियायाः सत्वाच्च । आग्नीध्र आद्यो येषां ब्रह्मोद्गातृहोत्रध्वर्यंब्राह्मणाच्छंसिअच्छावाकनेष्ट्रादीनां षोडशानाम् ॥


प्रक्रिया

धातुः -


ञिइन्धीँ दीप्तौ
इन्ध् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
अग्नि + शस् + इन्ध् + क्विप् - क्विप् च 3.2.76
अग्नि + इन्ध् + क्विप् - सुपो धातुप्रातिपदिकयोः 2.4.71
अग्नि + इन्ध् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अग्नि + इन्ध् - वेरपृक्तस्य 6.1.67
अग्नि + इध् - अनिदितां हल उपधायाः क्ङिति 6.4.24
अग्नीध् - अकः सवर्णे दीर्घः 6.1.101
अग्नीध् + रण् - अग्नीधः शरणे रण् भत्वं च (4.3.120) । वार्तिकम् ।
अग्नीध् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अग्नीध्र + सु + आद्य + सु - अनेकमन्यपदार्थे 2.2.24
अग्नीध्र + आद्य - सुपो धातुप्रातिपदिकयोः 2.4.71
अग्नीध्राद्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अग्नीध्राद्य + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अग्नीध्राद्य + रु - ससजुषो रुः 8.2.66
अग्नीध्राद्य + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अग्नीध्राद्यः - खरवसानयोर्विसर्जनीयः 8.3.15