होता

सुधाव्याख्या

जुहोति । नप्तृनेष्टृत्वष्टृहोतृपोतृ-' (उ० २.९५) इति साधुः ॥ यजुश्च सामानि च ऋचश्च । 'चार्थे द्वन्द्वः’(२.२.२९) । समासान्तविधेरनित्यत्वात् 'ऋक्पूर-'(५.४.७४) इत्यकारो न । यजुः सामर्चो विदन्ति । ‘सत्सूद्विष-'(३.२.६१) इति क्विप् । यजुर्विदध्वर्युः । सामविदुद्गाता । ऋग्विद् होता । ऋत्विग्विशेषाणां क्रमादेकैकम् ।


प्रक्रिया