उग्दातृः

सुधाव्याख्या

उद् गायति साम । 'गै शब्दे’ (वा० प० अ०) । ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ’ (उ० २.९४) ॥


प्रक्रिया

धातुः -


गै शब्दे
उद् + गै + तृच् - तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ (२.९४) । उणादिसूत्रम् ।
उद् + गै + तृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
उद् + गा + तृ - आदेच उपदेशेऽशिति 6.1.45
उद्गातृ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उद्गात् + अन् + स् - ऋदुशनस्पुरुदंसोऽनेहसां च 7.1.94
उद्गात् + आन् + स् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
उद्गात् + आन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
उद्गाता - नलोपः प्रातिपदिकान्तस्य 8.2.7