अध्वर्युः

सुधाव्याख्या

अध्वेति । अध्वरमिच्छति । ‘सुपः-'(३.१.८) इति क्यच् । कव्यध्वरपृतनस्य-'(७.४.३९) इति लोपः । ‘क्याच्छन्दसि' (३.२.१७०) इत्युः । यदा न ध्वरति । ‘ध्वृ कौटिल्ये' (भ्वा० प० अ०) विच् (३.२.७५) । अध्वरं याति, यौति, वा । मितद्रवादित्वात् (वा० ३. २.१८०) डुः । -अपष्ट्वादि इति मुकुटश्चिन्त्यः । गणाभावात् ॥