प्राग्वंशः

सुधाव्याख्या

प्रेति । प्राञ्चति । ‘अञ्चु गतिपूजनयोः’ (भ्वा० प० से०) ‘ऋत्विग्-’ (३.३.५९) इति क्विन् । प्राङ् वंशो गोत्रं स्थूणा वात्र ॥ हविः शालायाः पूर्वभागे यजमानादीनां स्थित्यर्थे गेहे प्राग्वंशशब्दो वर्तते ॥


प्रक्रिया

धातुः -


अन्चुँ गतिपूजनयोः
अञ्च् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + अञ्च् + क्विन् - ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च 3.2.59
प्र + अञ्च् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + अञ्च् - वेरपृक्तस्य 6.1.67
प्राञ्च् - अकः सवर्णे दीर्घः 6.1.101
प्राच् - अनिदितां हल उपधायाः क्ङिति 6.4.24
प्राच् + वंश + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.4) । वार्तिकम् ।
प्राच् + वंश - सुपो धातुप्रातिपदिकयोः 2.4.71
प्राग्वंश - चोः कुः 8.2.30
प्राग्वंश + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्राग्वंश + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्राग्वंश + रु - ससजुषो रुः 8.2.66
प्राग्वंश + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्राग्वंशः - खरवसानयोर्विसर्जनीयः 8.3.15