बलिः

सुधाव्याख्या

वलनम् । ‘वल दाने’ (संवरणे) (भ्वा० आ० से०) । इन् (उ० ४.११८) । ‘बलिर्दैत्योपहारयोः । करे चामरदण्डे च गृहदारुशरांशयोः । त्वक्सङ्कोचे गन्धके च' इति हैमः ॥ महान्तश्च ते यज्ञाश्च । ब्रह्मयज्ञ आदिर्येषां तानि ब्रह्मयज्ञादीनि नामानि येषां ते । मनुः-अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् (३.७०) इति ॥