अनूचानः

सुधाव्याख्या

अन्विति । अन्ववोचत् । 'उपेयिवान्-’ (३.२.१०९) इति साधुः । ‘अनूचानो विनीते स्यात्साङ्गवेदविचक्षणे' इति विश्वः ॥ शिक्षाद्यङ्गषट्कोपेते । प्रोच्यते । ल्युट् (३.३.११३) । प्रवचनो वेदस्तत्र । अधीतमनेन । 'इष्टादिभ्यश्च (५.२.८८) इतीनिः । ‘क्तस्येन्विषयस्य-' (वा० २.३.३६) इति सप्तमी ॥