शिखण्डकः

सुधाव्याख्या

शिखाया अण्ड इव । ‘इवे-’ (५.३.९६) इति, स्वार्थे (ज्ञापि० ५.४.५) वा कन् । शकन्ध्वादिः (वा०६.१.९४) । ‘शिखण्डौ तु शिखाबर्हौ’ इति तालव्यादौ रभसः । ‘शिखण्डो बर्हचूडयोः’ (इति मेदिनी) ।शकन्ध्वादित्वं केचिन्नेच्छन्ति । ‘शिखाण्डकशिखण्डकौ’ इति वाचस्पतिसुभूती ॥