कचः

सुधाव्याख्या

कच्यते । ‘कच बन्धने’ (भ्वा० प० से०) ‘पुंसि-’ (३.३.११८) इति घः । कचत्यात्मानं वा । अच् (३.१.१३४) । ‘कचः शष्कव्रणे केशे बन्धे पुत्रे च गीर्पतेः । कचा करेण्वाम्’ इति हैमः ॥