बालः

सुधाव्याख्या

बलति । ‘बल प्राणने’ (भ्वा० प० से०) । जलादित्वात् (३.१.१४०) णः । बल्यतेऽवरुध्यते वा । घञ् (३.३.१९) । बालो ना कुन्तलेऽश्वस्य गजस्यापि बालधौ । नालिकेरे हरिद्रायां मल्लिकाभिद्यपि स्त्रियाम् । वाच्यलिङ्गोऽर्भके मूर्खे ह्रीवेरे पुंनपुंसकम् । अलंकारान्तरे मेध्ये बाली बाला त्रुटिस्त्रियोः’ इति (पवर्गीयादौ) मेदिनी ॥