चिकुरः

सुधाव्याख्या

चीति । ‘चि’ इति अव्यक्तं कुरति । ‘कुर शब्दे’ (तु० प० से०) ‘इगुपध-’ (३.१.१३५) इति कः । ‘कुन्तला मूर्धजास्त्वस्राश्चिकुराश्चिहुराः कचाः’ इति दुर्गः ॥