शिरस्म्

सुधाव्याख्या

श्रीयते उष्णीषादिना । ‘श्रयतेः स्वाङ्गे शिरः किच्च’ (उ० ४.१९४) इत्यसुन् । ‘शिरः प्रधाने सेनाग्रे शिखरे मस्तकेऽपि च’ (इति मेदिनी) । ‘शिरोवाची शिरोऽदन्तो, रजोवाची रजस्तथा’ ।