अरत्निः

सुधाव्याख्या

अरेति । रत्निभिन्नः । नञ्समासः । ‘नारत्निः कफोणौ हस्ते सप्रकोष्ठे चाङ्गुलौ’ इति रुद्रः । ‘अरत्निर्ना सप्रकोष्ठतताङ्गुलिकरेऽपि च । कफोणावपि’ (इति मेदिनी) ॥ निर्गता कनिष्ठा यस्मात्तेन मुष्टिनोपलक्षितः ।