सरत्निः

सुधाव्याख्या

म्विति । स हस्तः मुष्यतेऽनया । ‘मुष स्तेये’ (क्र्या० प० से०) । ‘स्त्रियां क्तिन्’ (३.३.९४) । यद्वा मुष्णाति । क्तिच् (३.३.१७४) ('संपीडिताङ्गुलिर्मुष्टिः’ इति हलायुधः (‘मुष्टिर्द्वयोः फले । बद्धपाणौ त्सरौ’ इति मेदिनी) । बद्धया मुष्ट्योपलक्षितः । ऋच्छति । अर्यतेऽनेन वा । ‘ऋ गतौ’ (भ्वा० प० अ०) । ‘ऋतनि’ (उ० ४.२) इति कत्निच् । ‘रत्न्यरत्नी स्त्रियौ बद्धमुष्टितताङ्गुली’ इत्यमरमाला ॥


प्रक्रिया

धातुः -


ऋ गतिप्रापणयोः
ऋ + कत्निच् - ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः (४.२) । उणादिसूत्रम् ।
ऋ + अत्नि - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
र् + अत्नि - इको यणचि 6.1.77
रत्नि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
रत्नि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रत्नि + रु - ससजुषो रुः 8.2.66
रत्नि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रत्निः - खरवसानयोर्विसर्जनीयः 8.3.15