हस्तः

सुधाव्याख्या

प्रेति । बाहौ प्रसारितपाणौ हस्तः । हसति, हस्यतेऽनेन वा । ‘हसे हसने’ (भ्वा० प० से०) । ‘हसिमृगॄ-’ (उ० ३.८६) इति तन् । ‘हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च । ऋक्षे केशात्परो व्राते’ (इति मेदिनी) ॥ विस्तृतः करो यस्य तस्मिन् ।