अञ्जलिः

सुधाव्याख्या

ताविति । तौ प्रसृतौ मिलितौ । अज्यतेऽनेन । ‘अञ्जू व्यक्त्यादौ’ (रु० प० से०) । ‘ऋतन्यञ्जि-’ (उ० ४.२) इत्यलिः । ‘अञ्जलिस्तु पुमान् हस्तसंपुटे कुडवेऽपि च’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


अन्जूँ व्यक्तिम्रक्षणकान्तिगतिषु
अञ्ज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अञ्ज् + अलि - ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यः कत्निच्यतुजलिजिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः (४.२) । वार्तिकम् ।
अञ्जलि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अञ्जलि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अञ्जलि + रु - ससजुषो रुः 8.2.66
अञ्जलि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अञ्जलिः - खरवसानयोर्विसर्जनीयः 8.3.15