गात्रम्

सुधाव्याख्या

गाते । ‘गाङ् गतौ’ (अ० आ० अ०) । ष्ट्रन् (उ० ४.१५९) इति वा । ‘बहुलं तणि’ (वा० २.४५४) इति इणो गा । ‘गात्रं गजाग्रजङ्घादिभागेऽप्यङ्गे कलेवरे’ इति विश्वमेदिन्यौ ॥