कलेवरम्

सुधाव्याख्या

अथेति । कले शुक्रे मधुराव्यक्तध्वनौ वा वरं श्रेष्ठम् । ‘हलदन्तात्-’ (६.३.९) इत्यलुक् । यत्तु-कले रेतसि व्रियते उपयुज्यते । ‘कर्मण्यण्’ (३.२.१) इति मुकुटः । तन्न । कर्मोपपदत्वाभावात् । कर्मणि कारके विधायकाभावात् । वृद्धिप्रसङ्गाच्च ॥