दर्द्रुणः

सुधाव्याख्या

देति । दरिद्राति । ‘दरिद्रा दुर्गतौ’ (अ० प० से०) । ‘दरिद्रातेर्यालोपश्च’ (उ० १.९०) इति साधुः । दर्द्रूरस्यास्ति । ‘शाकीपलाशीदर्द्रूणां ह्रस्वश्च’ इति पामादिषु (ग० ५.२.१००) पाठान्नः ॥


प्रक्रिया

धातुः -


दरिद्रा दुर्गतौ
दर् + द्र् + ऊ - दरिद्रातेर्यालोपश्च (१.९०) । उणादिसूत्रम् ।
दर्द्रु + सु + न - शाकी-पलाली-दद्र्वां ह्रस्वत्वम् च (5.2.100) । गणसूत्रम् ।
दर्द्रु + न - सुपो धातुप्रातिपदिकयोः 2.4.71
दर्द्रुण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
दर्द्रुण + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दर्द्रुण + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दर्द्रुण + रु - ससजुषो रुः 8.2.66
दर्द्रुण + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दर्द्रुणः - खरवसानयोर्विसर्जनीयः 8.3.15