पिप्लुः

सुधाव्याख्या

अपि प्लवते । ‘प्लुङ् गतौ’ (भ्वा० आ० से०) । मितद्र्वादित्वात् (वा० ३.२१८०) डुः । ‘वष्टि भागुरिः-’ इत्यल्लोपः ॥


प्रक्रिया

धातुः -


प्लुङ् गतौ
प्लु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अपि + प्लु + डु - डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम् (3.2.180) । वार्तिकम् ।
अपिप्लु + उ - चुटू 1.3.7, तस्य लोपः 1.3.9
अपिप्ल् + उ - टेः 6.4.143
पिप्लु - वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।
पिप्लु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पिप्लु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिप्लु + रु - ससजुषो रुः 8.2.66
पिप्लु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पिप्लुः - खरवसानयोर्विसर्जनीयः 8.3.15