संहतजानुकः

सुधाव्याख्या

सेति । संयते जानुनी यस्य । प्राग्वत् ज्ञुः (५.४.१२९) ॥ ‘प्रज्ञुः प्रगतजानुः स्यात् प्रज्ञोऽप्यत्रैव दृश्यते । संज्ञुः संहतजानौ च भवेत् संज्ञोऽपि तत्र हि । ऊर्ध्वनुरूर्ध्वजानुः स्यादूर्ध्वज्ञोऽप्यूर्ध्वजानुके’ इति साहसाङ्कः ।