अवटीटः

सुधाव्याख्या

अवेति । अवनमनं नासिकायाः । ‘नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः’ (५.२.३१) । अवटीटम्, अवनाटम्, अवभ्रटम्, च = नासिकाया नतमस्त्यस्याः । अर्शआद्यच् (५.२.१२७) । अवटीटा, अवनाटा, अवभ्रटा, च नासिकास्त्यस्य पुरुषस्य । अर्शआद्यच् (५.२.१२७) ॥