वार्धकम्

सुधाव्याख्या

वृद्धानां समूहः । ‘वृद्धाच्च’ (वा० ४.२.३९) इति वुञ् । भावकर्मणोस्तु मनोज्ञादित्वात् (५.१.१३३) वुञ् । अपिशब्दाद्वृद्धत्वेऽपि । वार्धकशब्दात् चतुर्वर्णादित्वात् । (वा० ५.१.१२४) स्वार्थे ष्यञि ‘वार्धक्यम्’ अपि । ‘वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि’ इति विश्वः ॥