जामातृः

सुधाव्याख्या

जेति । जायां मिमीते । मिनोति, वा । ‘माङ् माने’ (जु० आ० अ०) । ‘डुमिञ् प्रक्षेपणे’ (स्वा० उ० अ०) वा । ‘नप्तृनेष्टृ-’ (उ० २.९५) इति साधुः ॥


प्रक्रिया

धातुः -


माङ् माने शब्दे च
मा - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
जा + ङि + मा + तृन् - नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ (२.९५) । उणादिसूत्रम्, उपपदमतिङ् 2.2.19
जा + मा + तृन् - सुपो धातुप्रातिपदिकयोः 2.4.71
जा + मा + तृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
जामातृ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
जामात् + अनङ् + सु - ऋदुशनस्पुरुदंसोऽनेहसां च 7.1.94
जामत् + अन् + सु - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जामातन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
जामातान् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
जामाता - नलोपः प्रातिपदिकान्तस्य 8.2.7