देवरः

सुधाव्याख्या

देवते । ‘देवृ देवने’ (भ्वा० आ० से०) । ‘अर्तिकमिभ्रमि-’ (उ० ३.१३२) इत्यरः ॥ ‘देवृदेवरदेवानः’ इति शब्दार्णवः । द्वे ‘पत्युः कनिष्ठभ्रातुः’ इति स्वामी । ज्येष्ठस्तु श्वशुर एवेति सुभूत्यादयः ॥