श्यालः

सुधाव्याख्या

श्येति । श्यायते । ‘श्यैङ् गतौ’ (भ्वा० आ० अ०) । बाहुलकात्कालन् । –उच्छिष्टमधुपर्कवाची ‘श्या’ शब्दः । श्यां लाति । ‘आतोऽनुप-’ (३.२.३) इति कः । इति मुकुटः । -स्यामयति । ‘स्यम वितर्के चुरादिः । अच् (३.१.१३४) । पृषोदरादित्वात् (६.३.१०९) मस्य लः - इति स्वामी । ‘स्यालसालसमसूरसूरयः’ इति सभेदाद्दन्त्यादिः । – ‘स्याल वितर्के’ -इति मुकुटस्य प्रमादः । स्याल धातोरभावात् ॥ पत्युः श्यालाः स्युः ॥