मातुलः

सुधाव्याख्या

मेति । (‘पितृव्यमातुल-’ (४.२.३६) इति निपातितः) । मातुलो मदनद्रुमे । धत्तूरेऽहिव्रीहिभिदोः पितुः श्यालेऽपि इति हैमः ॥


प्रक्रिया

धातुः -


मातृ + डुलच् - मातुर्डुलच् (4.2.36) । वार्तिकम् ।
मातृ + उल - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मात् + उल - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
मातुल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मातुल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मातुल + रु - ससजुषो रुः 8.2.66
मातुल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मातुलः - खरवसानयोर्विसर्जनीयः 8.3.15