श्वशुरः

सुधाव्याख्या

श्वेति । तयोः पतिपत्न्योः पिता परस्परं श्वशुरः । ‘शु’ इति आश्चर्ये पूजायां वा । शु आशु अश्नुते, अश्यते वा । ‘अशू व्याप्तौ संघाते च’ (स्वा० आ० से०) । ‘शावशेराप्तौ’ (उ० १.४४) इत्युरन् । द्वितालव्यः ‘श्वश्रूः शिशुश्वशुरः’ इति शभेदात् ॥