वैमात्रेयः

सुधाव्याख्या

वैमेति । विरुद्धा माता । ‘प्रादयो गता-’ (वा० २.२.१८) इति समासः । विमातुरपत्यम् । शुभ्रादित्वात् (४.१.१२३) समासः । ढक् ॥


प्रक्रिया

धातुः -


विरुद्धा + मातृ
विमातृ - प्रादयो गताद्यर्थे प्रथमया (2.1.18) । वार्तिकम् ।
विमातृ + ङस् + ढक् - शुभ्रादिभ्यश्च 4.1.123
विमातृ + ढक् - सुपो धातुप्रातिपदिकयोः 2.4.71
विमातृ + ढ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
विमातृ + एय् + अ - आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7.1.2
विमात्र् + एय - इको यणचि 6.1.77
वैमात्रेय - किति च 7.2.118
वैमात्रेय + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वैमात्रेयः + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वैमात्रेयः + रु - ससजुषो रुः 8.2.66
वैमात्रेयः + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वैमात्रेयः - खरवसानयोर्विसर्जनीयः 8.3.15