दिधिषूः

सुधाव्याख्या

‘द्वित्रिचतुर्भ्यः सुच्’ (५.४.१८) । ‘अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः’ (याज्ञवल्क्यः १.६७) ॥ तेति । तस्या दिधिष्वाः । दिधिषूमात्मन इच्छति । ‘सुप आत्मनः क्यच्’ (३.१.८) । क्विप् (३.२.१७८) । ‘पुनर्भूपतिरुक्तश्च पुनर्भूर्दिधिषूस्तथा’ इत्येषोऽप्यूदन्त इति स्वामी । मुकुटस्तु (दिधिषुम्) हृस्वमाह बाहुलकात् ॥