दिधिषूः

सुधाव्याख्या

दधाति पापम् । ‘डुधाञ् धारणपोषणयोः’ (जु० उ० अ०) । धिष्यते । ‘धिष शब्दे’ (जु० प० से०) । ‘अन्दूदृम्भू-’ (उ० १.९३) इति साधुः । यद्वा दिधिं धैर्यं स्यति । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । प्राग्वत् ॥