उपाध्यायी

सुधाव्याख्या

उपेति । उपेत्याधीयतेऽस्याः । ‘इङश्च’ (३.३.२१) इत्यत्र ‘अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष्’ इति (वार्तिकेन) घञ्, ॥


प्रक्रिया

धातुः -


उपाध्याय + ङीष् - अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च वा ङीष् (3.3.21) । वार्तिकम् ।
उपाध्याय + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
उपाध्याय् + ई - यस्येति च 6.4.148
उपाध्यायी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उपाध्यायी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उपाध्यायी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68