उपाध्याया

सुधाव्याख्या

उपेति । उपेत्याधीयतेऽस्याः । ‘इङश्च’ (३.३.२१) इत्यत्र ‘अपादाने स्त्रियामुपसंख्यानं तदन्ताच्च वा ङीष्’ इति (वार्तिकेन) घञ्, ॥


प्रक्रिया

धातुः -


इङ् अध्ययने
उप + अधि + इ
उपाधि + इ + घञ् - अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च वा ङीष् (3.3.21) । वार्तिकम् ।
उपाधि + इ + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
उपाधि + ऐ + अ - अचो ञ्णिति 7.2.115
उपाधि + आय् + अ - एचोऽयवायावः 6.1.78
उपाध्य् + आय - इको यणचि 6.1.77
उपाध्याय + टाप् - अजाद्यतष्टाप्‌ 4.1.4
उपाध्याय + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
उपाध्याय - अकः सवर्णे दीर्घः 6.1.101
उपाध्याया + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उपाध्याया + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उपाध्याया - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68