शूद्रा

सुधाव्याख्या

शूद्रेति । ‘शूद्रा चामहत्पूर्वा जातिः’ (वा० ४.१.४) इति टाप् ॥


प्रक्रिया

धातुः -


शूद्र + टाप् - शूद्रा चामहत्पूर्वा जातिः (4.1.4) । वार्तिकम् ।
शूद्र + टाप् - अजाद्यतष्टाप्‌ 4.1.4
शूद्र + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
शूद्रा - अकः सवर्णे दीर्घः 6.1.101