पिण्डकः

सुधाव्याख्या

पिण्डते । ‘पिडि सङ्गाते’ (भ्वा० आ० से०) । अच् (३.१.१३४) । स्वार्थे कन् (ज्ञापि० ५.४.५) । -पिण्डति । ‘पिडि गतौ’ – इति मुकुटश्चिन्त्यः । ‘पडि गतौ’ इत्यस्यात्मनेपदिषु पाठात् । पिण्डो बोले बले सान्द्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोलसिल्हकयोरपि । ओड्रपुष्पे च पुंसि स्यात् क्लीबमाजीवनायसोः । पिण्डी तु पिण्डतगरेऽलावूखर्जूरभेदयोः’ (इति मेदिनी) ॥