तुरुष्कः

सुधाव्याख्या

त्विति । तुतोर्ति । ‘तुर त्वरणे’ (जु० प० से०) । बाहुलकादुस् गुणाभावश्च । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘तुरुष्कः सिल्हके म्लेच्छजातौ देशान्तरेऽपि च’ इति विश्वमेदिन्यौ ॥