चार्चिक्यम्

सुधाव्याख्या

‘धात्वर्थनिर्देशे ण्वुल्’ (वा० ३.३.१०८) ‘चर्चिका’ । ततः स्वार्थे ष्यञ् (वा० ५.१.१२४) ॥


प्रक्रिया

धातुः -


चर्चँ अध्ययने
चर्च् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चर्च् + ण्वुल् - धात्वर्थनिर्देशे ण्वुल् वक्तव्यः (3.3.108) । वार्तिकम् ।
चर्च् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
चर्च् + अक - युवोरनाकौ 7.1.1
चर्चक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
चर्चक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
चर्चका - अकः सवर्णे दीर्घः 6.1.101
चर्चिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
चर्चिका + सु + ष्यञ् - चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् (5.1.124) । वार्तिकम् ।
चर्चिका + ष्यञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
चर्चिका + य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, षः प्रत्ययस्य 1.3.6
चर्चिक् + य - यस्येति च 6.4.148
चार्चिक्य - तद्धितेष्वचामादेः 7.2.117
चार्चिक्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चार्चिक्य + अम् - अतोऽम् 7.1.24
चार्चिक्यम् - अमि पूर्वः 6.1.107