सखी

सुधाव्याख्या

समानं ख्यायते जनैः । ‘समाने ख्यः स चोदात्तः' (उ० ४.१३७) इतीण् डित् समानस्य स च । ‘सख्यशिश्वी-’ (४.१.६२) इति ङीष् । ‘सखा मित्रे सहाये ना वयस्यायां सखी मता’ (इति मेदिनी) ॥