चण्डातकः

सुधाव्याख्या

अर्धेति । ‘ऊरोरर्धम्’ । ‘अर्धं नपुंसकम्’ (२.२.२) इति समासः । अर्धारौ काशते । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । चण्डां कोपनां वरस्त्रियमतति । क्वुन् (उ० २.३२) । ‘अर्धोरुकं वरस्त्रीणां वासश्चण्डातकः स्मृतः’ इति पुंकाण्डे वोपालितात्पुंलिङ्गोऽपि ॥


प्रक्रिया

धातुः -


अतँ सातत्यगमने
अत् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चण्डा + अम् + अत् + क्वुन् - क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि (२.३२) । उणादिसूत्रम्, उपपदमतिङ् 2.2.19
चण्डा + अत् + क्वुन् - सुपो धातुप्रातिपदिकयोः 2.4.71
चण्डा + अत् + वु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
चण्डा + अत् + अक - युवोरनाकौ 7.1.1
चण्डातक - अकः सवर्णे दीर्घः 6.1.101
चण्डातक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चण्डातक + अम् - अतोऽम् 7.1.24
चण्डातकम् - अमि पूर्वः 6.1.107