अर्धहारः

सुधाव्याख्या

‘विंशतियष्टिको हारो माणवः परिकीर्तितः’ । ‘अर्धेनैकदेशेन कृतो हारः । शाकपार्थिवादिः (वा० २.१.६०) ॥


प्रक्रिया

धातुः -


अर्ध + टा + हार + सु - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (2.1.60) । वार्तिकम् ।
अर्ध + हार - सुपो धातुप्रातिपदिकयोः 2.4.71
अर्धहार + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अर्धहार + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अर्धहार + रु - ससजुषो रुः 8.2.66
अर्धहार + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अर्धहारः - खरवसानयोर्विसर्जनीयः 8.3.15