प्रियकः

सुधाव्याख्या

प्रीणाति । प्रीयते वा । ‘प्रीञ् तर्पणे' (क्र्या० उ० अ०) । ‘प्रीङ् प्रीणने' (दि० आ० अ०) वा । ‘इगुपध-'(३.१.१३५) इति कः । स्वार्थे कन् (५.३.७५) ॥


प्रक्रिया

धातुः -


प्रीञ् तर्पणे कान्तौ च
प्री - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्री + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
प्री + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्र् + इयङ् + अ - अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77
प्रिय + अ - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रिय + सु + कन् - संज्ञायां कन् 5.3.75
प्रिय + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्रियक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रियक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रियक + रु - ससजुषो रुः 8.2.66
प्रियक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रियकः - खरवसानयोर्विसर्जनीयः 8.3.15