चमूरुः

सुधाव्याख्या

चमति । ‘चमु अदने' (भ्वा० प० से०) । खर्जादित्वात् (उ० ४.९०) ऊरः । पृषोदरादित्वात् (६.३.१०९) अत उत् । यद्वा चमू: चम्वां वा ऊरुर्यस्य ॥